अस्माकं महाविद्यालयः
पश्चिमवङ्गप्रदेशस्य एकस्मिन् प्रान्तभागे उत्कलप्रदेशस्य सीमान्तवर्त्तिक्षेत्रे ग्राम्यपरिवेशस्य प्राकृतिकशोभाविमण्डितप्रान्ते च विद्यमानः नवदेहलीस्थकेन्द्रीयसंस्कृतविश्वविद्यालयानुमोदितः कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयः कृतविद्यान् विद्यार्थिनो निर्माय समग्रे प्रदेशे स्वनिमित्तं स्वतन्त्रस्थानस्य संरक्षणं कृतमस्ति। अभिज्ञानामध्यापकानामध्यापनबलेन अस्यानुष्ठानस्य बहवो मेधाविछात्राः स्वर्णपदकादीनि सम्प्राप्य स्वस्वक्षेत्रे प्रतिष्ठां लब्धवन्तः। इयं भूमिः मे धन्या । यतो हि अस्मदादीनां प्रातःस्मरणीयानामृषिकल्पानां पण्डितप्रवराणां विद्यासागरमहोदयानां जन्मभूमिः, अपि च प्रसिद्धकथाकारस्य वङ्किमचन्द्रस्य कर्मभूरियम्। एतादृशमहनीयपुरुषाणां प्रदेशे विगते १९९८ तमे ख्रीष्टाब्दे अत्रत्यभूमिदातृस्वर्गीयजगदीशचन्द्रसाहु-ज्योतिर्मयसाहुमहोदययोः पितृणां स्वर्गतविक्रमकिशोरसाहुमहोदयानां नामानुसारेण संस्थापितोऽयं महाविद्यालयः । प्रतिवर्षमस्य राज्यस्य दूरवर्त्ति-वर्धमान-वाँकुडा-सागरदीप-हुगुलि-पुरुलिआप्रभृतिमण्डलेभ्यः तथा च विहार-उत्कलप्रदेशाच्च (त्रिवेणीसंगमवत् अंगवंगकलिङ्गादि-देशेभ्यः) छात्रा अत्रागत्यानुदिनं सश्रद्धं सानन्दं च संस्कृतं पठन्त्येव ।
मेदिनीपुरमण्डलस्य अयमेक एव संस्कृतमहाविद्यालयो यत्र छात्रा आचार्योपाधि (एम्.ए) मधिगम्य विद्यालयेषु महाविद्यालयेषु च नियुक्तास्सन्त अध्यापनादिकृत्यं कुर्वन्ति। समग्रे भारतवर्षे आचार्यपरीक्षायां प्रथमस्थानमधिगत्यास्य महाविद्यालयस्य नैके छात्राः प्रायशः राष्ट्रियसंस्कृतसंस्थानेन स्वर्णपदकैः विभूषिताः, अखिलभारतीयशास्त्रीयस्पर्धासु अस्य छात्राः स्थानमवाप्य भृशं प्रशंसिताश्च। संस्थानस्य बहुषु परिसरेष्वस्य छात्राः शिक्षाशास्त्रि-शिक्षाचार्य-शोधादिकञ्च कुर्वन्तो विराजन्ते। प्रतिवर्षं महाविद्यालयस्य प्रायशः छात्राः यू.जी.सी. नेट् / जे.आर.एफ् परीक्षासु उत्तीर्णा भवन्ति। शिक्षावर्ष-2022-2023 तः राष्ट्रियशिक्षानीति-2020 नियमानुसारं केन्द्रीयसंस्कृतविश्वविद्यालयस्य निर्देशानुसारं च प्राक्शास्त्रिकक्षातः आचार्यकक्षां यावत् विविधाः शास्त्रीयविषयाः यथा साहित्य- धर्मशास्त्र – व्याकरण - अद्वैतवेदान्ता अध्याप्यन्ते। शास्त्रिस्तरे सम्मानपाठ्यक्रमेण सह वांग्ला-आंग्ल-समाजशास्त्र-संगणकविज्ञान-परिवेशविज्ञान-योग-कर्मकाण्डादिविषया अप्यध्याप्यन्ते इति।
Kaliachak Bikram Kishore Adarsh Sanskrit Mahavidyalaya is proud to be associated with the district of undivided Medinipur, the proud work place of Rishi Bankim Chandra Chatterjee, the writer of our National Song ' Vande Mataram' and also of great social reformer and Sanskrit Scholar Pandit Iswar Chandra Vidyasagar. It is at a distance of nearly 130 kms. from Howrah Station (Kolkata) on the Howrah-Digha Highway which connects it with all parts of India. From the Southern and South Eastern Part it is connected through Kharagpur Junction which is 115 kms. Via Contai. The nearest Railway Station is Heria on the Digha-Howrah line which is 1.5 kms. from the Mahavidyalaya. The Mahavidyalaya is situated in a very beautiful natural ambiance having a well maintained pond, a beautiful flower garden and surrounded by lush green paddy field all the year round which makes its atmosphere conducive for learning and teaching and at the same time pollution free and ecologically environmental friendly. The overall atmosphere with abundance of physical, natural and the human resources is very much favorable for further development to become a premier center of Sanskrit learning and teaching in the Eastern Part of the Country. The Mahavidyalaya is looking forward to be transformed into a campus of Central Sanskrit University, New Delhi in future.